Anandalahari
The Anandalahari — the first part (the "waves of bliss") of Adi Shankaracharya's Soundarya Lahari, exalting the power (shakti) of the Divine Mother.
संस्कृत (Devanagari)
English (Roman)
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १॥
तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरस्संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २॥
अविद्यानामन्त-स्तिमिर-मिहिरद्वीपनगरी जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ॥ ३॥
त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवराभीत्यभिनया । भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५॥
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्तः सामन्तो मलयमरुदायोधनरथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम् अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ ६॥
क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७॥
सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९॥
सुधाधारासारैश्चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः । अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १०॥
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः । चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय- त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११॥
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः । यदालोकौत्सुक्यादमरललना यान्ति मनसा तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ १२॥
नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितमनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३॥
क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले । दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४॥
शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिकापुस्तककराम् । सकृन्न त्वा नत्वा कथमिव सतां संन्निदधते मधुक्षीरद्राक्षामधुरिमधुरीणाः भणितयः ॥ १५॥
कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् । विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी- गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६॥
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७॥
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः । भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८॥
मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः संक्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९॥
किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २०॥
तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम् । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१॥
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा- मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२॥
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् । यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३॥
जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति । सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव- स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४॥
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता । तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५॥
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७॥
सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । करालं यत्क्ष्वेलं कबलितवतः कालकलना न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८॥
किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् । प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९॥
स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो निषेव्ये नित्ये त्वामहमिति सदा भावयति यः । किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥ ३०॥
चतुष्षष्ट्या तन्त्रैः सकलमतिसंधाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना- स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१॥
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः स्मरो हंसः शक्रस्तदनु च परामारहरयः । अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२॥
स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो- र्निधायैके नित्ये निरवधिमहाभोगरसिकाः । भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३॥
शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम् । अतश्शेषश्शेषीत्ययमुभयसाधारणतया स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥ ३४॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् । त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ ३५॥
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता । यमाराध्यन् भक्त्या रविशशिशुचीनामविषये निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६॥
विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीमपि शिवसमानव्यवसिताम् । ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे- विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥
समुन्मीलत् संवित् कमलमकरन्दैकरसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम् । यदालापादष्टादशगुणितविद्यापरिणति- र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥ ३८॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान् दहति महति क्रोधकलिते दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९॥
तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् । तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४०॥
तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरसमहाताण्डवनटम् । उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१॥
shivah shaktya yukto yadi bhavati shaktah prabhavitum na chedevam devo na khalu kushalah spanditumapi । atastvamaradhyam hariharavirinchadibhirapi pranantum stotum va kathamakritapunyah prabhavati ॥ 1॥
taniyamsam pamsum tava charanapankeruhabhavam virinchissanchinvan virachayati lokanavikalam । vahatyenam shaurih kathamapi sahasrena shirasam harassamkshudyainam bhajati bhasitoddhulanavidhim ॥ 2॥
avidyanamanta-stimira-mihiradvipanagari jadanam chaitanya-stabaka-makaranda-srutijhari । daridranam chintamanigunanika janmajaladhau nimagnanam damshtra muraripu-varahasya bhavati ॥ 3॥
tvadanyah panibhyamabhayavarado daivataganah tvameka naivasi prakatitavarabhityabhinaya । bhayat tratum datum phalamapi cha vanchhasamadhikam sharanye lokanam tava hi charanaveva nipunau ॥ 4॥
haristvamaradhya pranatajanasaubhagyajananim pura nari bhutva puraripumapi kshobhamanayat । smaro'pi tvam natva ratinayanalehyena vapusha muninamapyantah prabhavati hi mohaya mahatam ॥ 5॥
dhanuh paushpam maurvi madhukaramayi pancha vishikhah vasantah samanto malayamarudayodhanarathah । tathapyekah sarvam himagirisute kamapi kripam apangatte labdhva jagadida-manango vijayate ॥ 6॥
kvanatkanchidama karikalabhakumbhastananata parikshina madhye parinatasharachchandravadana । dhanurbanan pasham srinimapi dadhana karatalaih purastadastam nah puramathiturahopurushika ॥ 7॥
sudhasindhormadhye suravitapivatiparivrite manidvipe nipopavanavati chintamanigrihe । shivakare manche paramashivaparyankanilayam bhajanti tvam dhanyah katichana chidanandalaharim ॥ 8॥
mahim muladhare kamapi manipure hutavaham sthitam svadhishthane hridi marutamakashamupari । mano'pi bhrumadhye sakalamapi bhitva kulapatham sahasrare padme saha rahasi patya viharase ॥ 9॥
sudhadharasaraishcharanayugalantarvigalitaih prapancham sinchanti punarapi rasamnayamahasah । avapya svam bhumim bhujaganibhamadhyushtavalayam svamatmanam kritva svapishi kulakunde kuharini ॥ 10॥
chaturbhih shrikanthaih shivayuvatibhih panchabhirapi prabhinnabhih shambhornavabhirapi mulaprakritibhih । chatushchatvarimshadvasudalakalashratrivalaya- trirekhabhih sardham tava sharanakonah parinatah ॥ 11॥
tvadiyam saundaryam tuhinagirikanye tulayitum kavindrah kalpante kathamapi virinchiprabhritayah । yadalokautsukyadamaralalana yanti manasa tapobhirdushprapamapi girishasayujyapadavim ॥ 12॥
naram varshiyamsam nayanavirasam narmasu jadam tavapangaloke patitamanudhavanti shatashah । galadvenibandhah kuchakalashavisrastasichaya hathat trutyatkanchyo vigalitadukula yuvatayah ॥ 13॥
kshitau shatpanchashad dvisamadhikapanchashadudake hutashe dvashashtishchaturadhikapanchashadanile । divi dvishshattrimshanmanasi cha chatushshashtiriti ye mayukhasteshamapyupari tava padambujayugam ॥ 14॥
sharajjyotsnashuddham shashiyutajatajutamakutam varatrasatranasphatikaghatikapustakakaram । sakrinna tva natva kathamiva satam samnnidadhate madhukshiradrakshamadhurimadhurinah bhanitayah ॥ 15॥
kavindranam chetahkamalavanabalataparuchim bhajante ye santah katichidarunameva bhavatim । virinchipreyasyastarunatarasharingaralahari- gabhirabhirvagbhirvidadhati satam ranjanamami ॥ 16॥
savitribhirvacham shashimanishilabhangaruchibhih vashinyadyabhistvam saha janani samchintayati yah । sa karta kavyanam bhavati mahatam bhangiruchibhih vachobhirvagdevivadanakamalamodamadhuraih ॥ 17॥
tanuchchhayabhiste tarunataranishrisaranibhih divam sarvamurvimarunimani magnam smarati yah । bhavantyasya trasyadvanaharinashalinanayanah sahorvashya vashyah kati kati na girvanaganikah ॥ 18॥
mukham bindum kritva kuchayugamadhastasya tadadho harardham dhyayedyo haramahishi te manmathakalam । sa sadyah samkshobham nayati vanita ityatilaghu trilokimapyashu bhramayati ravindustanayugam ॥ 19॥
kirantimangebhyah kirananikurambamritarasam hridi tvamadhatte himakarashilamurtimiva yah । sa sarpanam darpam shamayati shakuntadhipa iva jvaraplushtan drishtya sukhayati sudhadharasiraya ॥ 20॥
tatillekhatanvim tapanashashivaishvanaramayim nishannam shannamapyupari kamalanam tava kalam । mahapadmatavyam mriditamalamayena manasa mahantah pashyanto dadhati paramahladalaharim ॥ 21॥
bhavani tvam dase mayi vitara drishtim sakaruna- miti stotum vanchhan kathayati bhavani tvamiti yah । tadaiva tvam tasmai dishasi nijasayujyapadavim mukundabrahmendrasphutamakutanirajitapadam ॥ 22॥
tvaya hritva vamam vapuraparitriptena manasa sharirardham shambhoraparamapi shanke hritamabhut । yadetattvadrupam sakalamarunabham trinayanam kuchabhyamanamram kutilashashichudalamakutam ॥ 23॥
jagatsute dhata hariravati rudrah kshapayate tiraskurvannetatsvamapi vapurishastirayati । sadapurvah sarvam tadidamanugrihnati cha shiva- stavajnamalambya kshanachalitayorbhrulatikayoh ॥ 24॥
trayanam devanam trigunajanitanam tava shive bhavet puja puja tava charanayorya virachita । tatha hi tvatpadodvahanamanipithasya nikate sthita hyete shashvanmukulitakarottamsamakutah ॥ 25॥
virinchih panchatvam vrajati harirapnoti viratim vinasham kinasho bhajati dhanado yati nidhanam । vitandri mahendri vitatirapi sammilitadrisha mahasamhare'smin viharati sati tvatpatirasau ॥ 26॥
japo jalpah shilpam sakalamapi mudravirachana gatih pradakshinyakramanamashanadyahutividhih । pranamassamveshassukhamakhilamatmarpanadrisha saparyaparyayastava bhavatu yanme vilasitam ॥ 27॥
sudhamapyasvadya pratibhayajaramrityuharinim vipadyante vishve vidhishatamakhadya divishadah । karalam yatkshvelam kabalitavatah kalakalana na shambhostanmulam tava janani tatankamahima ॥ 28॥
kiritam vairincham parihara purah kaitabhabhidah kathore kotire skhalasi jahi jambharimukutam । pranamreshveteshu prasabhamupayatasya bhavanam bhavasyabhyutthane tava parijanoktirvijayate ॥ 29॥
svadehodbhutabhirghrinibhiranimadyabhirabhito nishevye nitye tvamahamiti sada bhavayati yah । kimashcharyam tasya trinayanasamriddhim trinayato mahasamvartagnirvirachayati nirajanavidhim ॥ 30॥
chatushshashtya tantraih sakalamatisamdhaya bhuvanam sthitastattatsiddhiprasavaparatantraih pashupatih । punastvannirbandhadakhilapurusharthaikaghatana- svatantram te tantram kshititalamavatitaradidam ॥ 31॥
shivah shaktih kamah kshitiratha ravih shitakiranah smaro hamsah shakrastadanu cha paramaraharayah । ami hrillekhabhistisribhiravasaneshu ghatita bhajante varnaste tava janani namavayavatam ॥ 32॥
smaram yonim lakshmim tritayamidamadau tava mano- rnidhayaike nitye niravadhimahabhogarasikah । bhajanti tvam chintamanigunanibaddhakshavalayah shivagnau juhvantah surabhighritadharahutishataih ॥ 33॥
shariram tvam shambhoh shashimihiravakshoruhayugam tavatmanam manye bhagavati navatmanamanagham । atashsheshashsheshityayamubhayasadharanataya sthitah sambandho vam samarasaparanandaparayoh ॥ 34॥
manastvam vyoma tvam marudasi marutsarathirasi tvamapastvam bhumistvayi parinatayam na hi param । tvameva svatmanam parinamayitum vishvavapusha chidanandakaram shivayuvati bhavena bibhrishe ॥ 35॥
tavajnachakrastham tapanashashikotidyutidharam param shambhum vande parimilitaparshvam parachita । yamaradhyan bhaktya ravishashishuchinamavishaye niraloke'loke nivasati hi bhalokabhuvane ॥ 36॥
vishuddhau te shuddhasphatikavishadam vyomajanakam shivam seve devimapi shivasamanavyavasitam । yayoh kantya yantyah shashikiranasarupyasarane- vidhutantardhvanta vilasati chakoriva jagati ॥ 37॥
samunmilat samvit kamalamakarandaikarasikam bhaje hamsadvandvam kimapi mahatam manasacharam । yadalapadashtadashagunitavidyaparinati- ryadadatte doshad gunamakhilamadbhyah paya iva ॥ 38॥
tava svadhishthane hutavahamadhishthaya niratam tamide samvartam janani mahatim tam cha samayam । yadaloke lokan dahati mahati krodhakalite dayardra ya drishtih shishiramupacharam rachayati ॥ 39॥
tatittvantam shaktya timiraparipanthisphuranaya sphurannanaratnabharanaparinaddhendradhanusham । tava shyamam megham kamapi manipuraikasharanam nisheve varshantam haramihirataptam tribhuvanam ॥ 40॥
tavadhare mule saha samayaya lasyaparaya navatmanam manye navarasamahatandavanatam । ubhabhyametabhyamudayavidhimuddishya dayaya sanathabhyam jajne janakajananimajjagadidam ॥ 41॥