Purusha Suktam
The Purusha Suktam — the Rigvedic hymn (RV 10.90) describing the Cosmic Being (Purusha) from whom the universe and all beings arise.
संस्कृत (Devanagari)
English (Roman)
ओम् । तच्छंयोरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ॥ ओं शान्तिः शान्तिः शान्तिः ॥
सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् ॥ १ ॥
पुरुष एवेदग्ं सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति ॥ २ ॥
एतावानस्य महिमा । अतो ज्यायाग्श्च पूरुषः । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि ॥ ३ ॥
त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुनः । ततो विष्वङ्व्यक्रामत् । साशनानशने अभि ॥ ४ ॥
तस्माद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः ॥ ५ ॥
यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्याऽऽसीदाज्यम् । ग्रीष्म इध्मः शरद्धविः ॥ ६ ॥
सप्तास्याऽऽसन्परिधयः । त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् ॥ ७ ॥
तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः । तेन देवा अयजन्त । साध्या ऋषयश्च ये ॥ ८ ॥
तस्माद्यज्ञात् सर्वहुतः । संभृतं पृषदाज्यम् । पशूग्स्ताग्श्चक्रे वायव्यान् । आरण्यान् ग्राम्याश्च ये ॥ ९ ॥
तस्माद्यज्ञात् सर्वहुतः । ऋचः सामानि जज्ञिरे । छन्दाग्ंसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत ॥ १० ॥
तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः ॥ ११ ॥
यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते ॥ १२ ॥
ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्याग्ं शूद्रो अजायत ॥ १३ ॥
चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ॥ १४ ॥
नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकाग्ं अकल्पयन् ॥ १५ ॥
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते ॥ १६ ॥
धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥ १७ ॥
यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते । यत्र पूर्वे साध्याः सन्ति देवाः ॥ १८ ॥
अद्भ्यः संभूतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे ॥ १९ ॥
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय ॥ २० ॥
प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते । तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेधसः ॥ २१ ॥
यो देवेभ्य आतपति । यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये ॥ २२ ॥
रुचं ब्राह्मं जनयन्तः । देवा अग्रे तदब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन् वशे ॥ २३ ॥
ह्रीश्च ते लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तम् । इष्टं मनिषाण । अमुं मनिषाण । सर्वं मनिषाण ॥ २४ ॥
ओम् । तच्छंयोरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ॥ ओं शान्तिः शान्तिः शान्तिः ॥
om । tachchhamyoravrinimahe । gatum yajnaya । gatum yajnapataye । daivi svastirastu nah । svastirmanushebhyah । urdhvam jigatu bheshajam । sham no astu dvipade । sham chatushpade ॥ om shantih shantih shantih ॥
sahasrashirsha purushah । sahasrakshah sahasrapat । sa bhumim vishvato vritva । atyatishthaddashangulam ॥ 1 ॥
purusha evedagm sarvam । yadbhutam yachcha bhavyam । utamritatvasyeshanah । yadannenatirohati ॥ 2 ॥
etavanasya mahima । ato jyayagshcha purushah । pado'sya vishva bhutani । tripadasyamritam divi ॥ 3 ॥
tripadurdhva udaitpurushah । pado'syeha''bhavatpunah । tato vishvanvyakramat । sashananashane abhi ॥ 4 ॥
tasmadviradajayata । virajo adhi purushah । sa jato atyarichyata । pashchadbhumimatho purah ॥ 5 ॥
yatpurushena havisha । deva yajnamatanvata । vasanto asya''sidajyam । grishma idhmah sharaddhavih ॥ 6 ॥
saptasya''sanparidhayah । trih sapta samidhah kritah । deva yadyajnam tanvanah । abadhnanpurusham pashum ॥ 7 ॥
tam yajnam barhishi praukshan । purusham jatamagratah । tena deva ayajanta । sadhya rishayashcha ye ॥ 8 ॥
tasmadyajnat sarvahutah । sambhritam prishadajyam । pashugstagshchakre vayavyan । aranyan gramyashcha ye ॥ 9 ॥
tasmadyajnat sarvahutah । richah samani jajnire । chhandagmsi jajnire tasmat । yajustasmadajayata ॥ 10 ॥
tasmadashva ajayanta । ye ke chobhayadatah । gavo ha jajnire tasmat । tasmajjata ajavayah ॥ 11 ॥
yatpurusham vyadadhuh । katidha vyakalpayan । mukham kimasya kau bahu । kavuru padavuchyete ॥ 12 ॥
brahmano'sya mukhamasit । bahu rajanyah kritah । uru tadasya yadvaishyah । padbhyagm shudro ajayata ॥ 13 ॥
chandrama manaso jatah । chakshoh suryo ajayata । mukhadindrashchagnishcha । pranadvayurajayata ॥ 14 ॥
nabhya asidantariksham । shirshno dyauh samavartata । padbhyam bhumirdishah shrotrat । tatha lokagm akalpayan ॥ 15 ॥
vedahametam purusham mahantam । adityavarnam tamasastu pare । sarvani rupani vichitya dhirah । namani kritva'bhivadan yadaste ॥ 16 ॥
dhata purastadyamudajahara । shakrah pravidvanpradishashchatasrah । tamevam vidvanamrita iha bhavati । nanyah pantha ayanaya vidyate ॥ 17 ॥
yajnena yajnamayajanta devah । tani dharmani prathamanyasan । te ha nakam mahimanah sachante । yatra purve sadhyah santi devah ॥ 18 ॥
adbhyah sambhutah prithivyai rasachcha । vishvakarmanah samavartatadhi । tasya tvashta vidadhadrupameti । tatpurushasya vishvamajanamagre ॥ 19 ॥
vedahametam purusham mahantam । adityavarnam tamasah parastat । tamevam vidvanamrita iha bhavati । nanyah pantha vidyate'yanaya ॥ 20 ॥
prajapatishcharati garbhe antah । ajayamano bahudha vijayate । tasya dhirah parijananti yonim । marichinam padamichchhanti vedhasah ॥ 21 ॥
yo devebhya atapati । yo devanam purohitah । purvo yo devebhyo jatah । namo ruchaya brahmaye ॥ 22 ॥
rucham brahmam janayantah । deva agre tadabruvan । yastvaivam brahmano vidyat । tasya deva asan vashe ॥ 23 ॥
hrishcha te lakshmishcha patnyau । ahoratre parshve । nakshatrani rupam । ashvinau vyattam । ishtam manishana । amum manishana । sarvam manishana ॥ 24 ॥
om । tachchhamyoravrinimahe । gatum yajnaya । gatum yajnapataye । daivi svastirastu nah । svastirmanushebhyah । urdhvam jigatu bheshajam । sham no astu dvipade । sham chatushpade ॥ om shantih shantih shantih ॥