Vishnu Sahasranama
Download PDF

Vishnu Sahasranama Stotram

The Vishnu Sahasranama — the thousand names of Lord Vishnu sung by Bhishma to Yudhishthira in the Mahabharata, one of the most revered of all stotrams.

॥ ध्यानम् ॥

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम्।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥

मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम्॥

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्।
सहारवक्षःस्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम्॥

हरिः ॐ ॥ अथ स्तोत्रम् ॥

ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः॥१॥

पूतात्मा परमात्मा च मुक्तानां परमा गतिः।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च॥२॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः॥३॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः॥४॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः।
अनादिनिधनो धाता विधाता धातुरुत्तमः॥५॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः॥६॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्॥७॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः॥८॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥९॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः॥१०॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः॥११॥

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः॥१२॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः॥१३॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः॥१४॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥१५॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥१६॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः॥१७॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अतीन्द्रियो महामायो महोत्साहो महाबलः॥१८॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥१९॥

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः॥२०॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥२१॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥२२॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः॥२३॥

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥२४॥

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः।
अहः संवर्तको वह्निरनिलो धरणीधरः॥२५॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः॥२६॥

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः॥२७॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥२८॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः॥२९॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥३०॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥३१॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः॥३२॥

युगादिकृद्युगावर्तो नैकमायो महाशनः।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्॥३३॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः॥३४॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः॥३५॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः॥३६॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः॥३७॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः॥३८॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः॥३९॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः।
महीधरो महाभागो वेगवानमिताशनः॥४०॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः।
करणं कारणं कर्ता विकर्ता गहनो गुहः॥४१॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः॥४२॥

रामो विरामो विरजो मार्गो नेयो नयोऽनयः।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः॥४३॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः॥४४॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः॥४५॥

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः॥४६॥

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः॥४७॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्॥४८॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः॥४९॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः॥५०॥

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः॥५१॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः॥५२॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः॥५३॥

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः।
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः॥५४॥

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः॥५५॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः॥५६॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्त्रिदशाध्यक्षो महाश‍ृङ्गः कृतान्तकृत्॥५७॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः॥५८॥

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः॥५९॥

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः॥६०॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः॥६१॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्॥६२॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः॥६३॥

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः॥६४॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः॥६५॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः॥६६॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥६७॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः॥६८॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः॥६९॥

कामदेवः कामपालः कामी कान्तः कृतागमः।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः॥७०॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः॥७१॥

महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः॥७२॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः॥७३॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥७४॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः॥७५॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः॥७६॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥७७॥

एको नैकः सवः कः किं यत् तत्पदमनुत्तमम्।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः॥७८॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी।
वीरहा विषमः शून्यो घृताशीरचलश्चलः॥७९॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः॥८०॥

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकश‍ृङ्गो गदाग्रजः॥८१॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्॥८२॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा॥८३॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥८४॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः श‍ृङ्गी जयन्तः सर्वविज्जयी॥८५॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाह्रदो महागर्तो महाभूतो महानिधिः॥८६॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः॥८७॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः॥८८॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः॥८९॥

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः॥९०॥

भारभृत् कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः॥९१॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः॥९२॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः॥९३॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः॥९४॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः॥९५॥

सनात्सनातनतमः कपिलः कपिरव्ययः।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः॥९६॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः॥९७॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः॥९८॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः॥९९॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः॥१००॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।
जननो जनजन्मादिर्भीमो भीमपराक्रमः॥१०१॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः॥१०२॥

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः॥१०३॥

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः॥१०४॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च॥१०५॥

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः॥१०६॥

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः॥१०७॥

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु॥१०८॥

॥ उत्तरन्यासः — फलश्रुतिः ॥

इतीदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्॥१॥

य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः॥२॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्॥३॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम्॥४॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्॥५॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्॥६॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः॥७॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः॥८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः॥९॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्॥१०॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित्।
जन्ममृत्युजराव्याधिभयं नैवोपजायते॥११॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः॥१२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे॥१३॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य वीर्येण विधृतानि महात्मनः॥१४॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्॥१५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च॥१६॥

सर्वागमानामाचारः प्रथमं परिकल्प्यते।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः॥१७॥

ऋषयः पितरो देवा महाभूतानि धातवः।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्॥१८॥

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म च।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्॥१९॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः॥२०॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च॥२१॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्॥२२॥

अर्जुन उवाच
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम।
भक्तानामनुरक्तानां त्राता भव जनार्दन॥२३॥

श्रीभगवानुवाच
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः॥२४॥

व्यास उवाच
वासनाद्वासुदेवस्य वासितं भुवनत्रयम्।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते॥२५॥

पार्वत्युवाच
केनोपायेन लघुना विष्णोर्नामसहस्रकम्।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो॥२६॥

ईश्वर उवाच
श्रीराम राम रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं रामनाम वरानने॥२७॥

ब्रह्मोवाच
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः॥२८॥

सञ्जय उवाच
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥२९॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥

॥ dhyanam ॥

shuklambaradharam vishnum shashivarnam chaturbhujam।
prasannavadanam dhyayet sarvavighnopashantaye॥

yasya dviradavaktradyah parishadyah parah shatam।
vighnam nighnanti satatam vishvaksenam tamashraye॥

vyasam vasishthanaptaram shakteh pautramakalmasham।
parasharatmajam vande shukatatam taponidhim॥

shantakaram bhujagashayanam padmanabham suresham
vishvadharam gaganasadrisham meghavarnam shubhangam।
lakshmikantam kamalanayanam yogibhirdhyanagamyam
vande vishnum bhavabhayaharam sarvalokaikanatham॥

meghashyamam pitakausheyavasam shrivatsankam kaustubhodbhasitangam।
punyopetam pundarikayataksham vishnum vande sarvalokaikanatham॥

sashankhachakram sakiritakundalam sapitavastram sarasiruhekshanam।
saharavakshahsthalakaustubhashriyam namami vishnum shirasa chaturbhujam॥

harih om ॥ atha stotram ॥

om vishvam vishnurvashatkaro bhutabhavyabhavatprabhuh।
bhutakridbhutabhridbhavo bhutatma bhutabhavanah॥1॥

putatma paramatma cha muktanam parama gatih।
avyayah purushah sakshi kshetrajno'kshara eva cha॥2॥

yogo yogavidam neta pradhanapurusheshvarah।
narasimhavapuh shriman keshavah purushottamah॥3॥

sarvah sharvah shivah sthanurbhutadirnidhiravyayah।
sambhavo bhavano bharta prabhavah prabhurishvarah॥4॥

svayambhuh shambhuradityah pushkaraksho mahasvanah।
anadinidhano dhata vidhata dhaturuttamah॥5॥

aprameyo hrishikeshah padmanabho'maraprabhuh।
vishvakarma manustvashta sthavishthah sthaviro dhruvah॥6॥

agrahyah shashvatah krishno lohitakshah pratardanah।
prabhutastrikakubdhama pavitram mangalam param॥7॥

ishanah pranadah prano jyeshthah shreshthah prajapatih।
hiranyagarbho bhugarbho madhavo madhusudanah॥8॥

ishvaro vikrami dhanvi medhavi vikramah kramah।
anuttamo duradharshah kritajnah kritiratmavan॥9॥

sureshah sharanam sharma vishvaretah prajabhavah।
ahah samvatsaro vyalah pratyayah sarvadarshanah॥10॥

ajah sarveshvarah siddhah siddhih sarvadirachyutah।
vrishakapirameyatma sarvayogavinihsritah॥11॥

vasurvasumanah satyah samatma'sammitah samah।
amoghah pundarikaksho vrishakarma vrishakritih॥12॥

rudro bahushira babhrurvishvayonih shuchishravah।
amritah shashvatasthanurvararoho mahatapah॥13॥

sarvagah sarvavidbhanurvishvakseno janardanah।
vedo vedavidavyango vedango vedavit kavih॥14॥

lokadhyakshah suradhyaksho dharmadhyakshah kritakritah।
chaturatma chaturvyuhashchaturdamshtrashchaturbhujah॥15॥

bhrajishnurbhojanam bhokta sahishnurjagadadijah।
anagho vijayo jeta vishvayonih punarvasuh॥16॥

upendro vamanah pramshuramoghah shuchirurjitah।
atindrah sangrahah sargo dhritatma niyamo yamah॥17॥

vedyo vaidyah sadayogi viraha madhavo madhuh।
atindriyo mahamayo mahotsaho mahabalah॥18॥

mahabuddhirmahaviryo mahashaktirmahadyutih।
anirdeshyavapuh shrimanameyatma mahadridhrik॥19॥

maheshvaso mahibharta shrinivasah satam gatih।
aniruddhah suranando govindo govidam patih॥20॥

marichirdamano hamsah suparno bhujagottamah।
hiranyanabhah sutapah padmanabhah prajapatih॥21॥

amrityuh sarvadrik simhah sandhata sandhiman sthirah।
ajo durmarshanah shasta vishrutatma surariha॥22॥

gururgurutamo dhama satyah satyaparakramah।
nimisho'nimishah sragvi vachaspatirudaradhih॥23॥

agranirgramanih shriman nyayo neta samiranah।
sahasramurdha vishvatma sahasrakshah sahasrapat॥24॥

avartano nivrittatma samvritah sampramardanah।
ahah samvartako vahniranilo dharanidharah॥25॥

suprasadah prasannatma vishvadhrigvishvabhugvibhuh।
satkarta satkritah sadhurjahnurnarayano narah॥26॥

asankhyeyo'prameyatma vishishtah shishtakrichchhuchih।
siddharthah siddhasankalpah siddhidah siddhisadhanah॥27॥

vrishahi vrishabho vishnurvrishaparva vrishodarah।
vardhano vardhamanashcha viviktah shrutisagarah॥28॥

subhujo durdharo vagmi mahendro vasudo vasuh।
naikarupo brihadrupah shipivishtah prakashanah॥29॥

ojastejodyutidharah prakashatma pratapanah।
riddhah spashtaksharo mantrashchandramshurbhaskaradyutih॥30॥

amritamshudbhavo bhanuh shashabinduh sureshvarah।
aushadham jagatah setuh satyadharmaparakramah॥31॥

bhutabhavyabhavannathah pavanah pavano'nalah।
kamaha kamakritkantah kamah kamapradah prabhuh॥32॥

yugadikridyugavarto naikamayo mahashanah।
adrishyo vyaktarupashcha sahasrajidanantajit॥33॥

ishto'vishishtah shishteshtah shikhandi nahusho vrishah।
krodhaha krodhakritkarta vishvabahurmahidharah॥34॥

achyutah prathitah pranah pranado vasavanujah।
apamnidhiradhishthanamapramattah pratishthitah॥35॥

skandah skandadharo dhuryo varado vayuvahanah।
vasudevo brihadbhanuradidevah purandarah॥36॥

ashokastaranastarah shurah shaurirjaneshvarah।
anukulah shatavartah padmi padmanibhekshanah॥37॥

padmanabho'ravindakshah padmagarbhah sharirabhrit।
maharddhirriddho vriddhatma mahaksho garudadhvajah॥38॥

atulah sharabho bhimah samayajno havirharih।
sarvalakshanalakshanyo lakshmivan samitinjayah॥39॥

viksharo rohito margo heturdamodarah sahah।
mahidharo mahabhago vegavanamitashanah॥40॥

udbhavah kshobhano devah shrigarbhah parameshvarah।
karanam karanam karta vikarta gahano guhah॥41॥

vyavasayo vyavasthanah samsthanah sthanado dhruvah।
pararddhih paramaspashtastushtah pushtah shubhekshanah॥42॥

ramo viramo virajo margo neyo nayo'nayah।
virah shaktimatam shreshtho dharmo dharmaviduttamah॥43॥

vaikunthah purushah pranah pranadah pranavah prithuh।
hiranyagarbhah shatrughno vyapto vayuradhokshajah॥44॥

rituh sudarshanah kalah parameshthi parigrahah।
ugrah samvatsaro daksho vishramo vishvadakshinah॥45॥

vistarah sthavarasthanuh pramanam bijamavyayam।
artho'nartho mahakosho mahabhogo mahadhanah॥46॥

anirvinnah sthavishtho'bhurdharmayupo mahamakhah।
nakshatranemirnakshatri kshamah kshamah samihanah॥47॥

yajna ijyo mahejyashcha kratuh satram satam gatih।
sarvadarshi vimuktatma sarvajno jnanamuttamam॥48॥

suvratah sumukhah sukshmah sughoshah sukhadah suhrit।
manoharo jitakrodho virabahurvidaranah॥49॥

svapanah svavasho vyapi naikatma naikakarmakrit।
vatsaro vatsalo vatsi ratnagarbho dhaneshvarah॥50॥

dharmagubdharmakriddharmi sadasatksharamaksharam।
avijnata sahasramshurvidhata kritalakshanah॥51॥

gabhastinemih sattvasthah simho bhutamaheshvarah।
adidevo mahadevo devesho devabhridguruh॥52॥

uttaro gopatirgopta jnanagamyah puratanah।
sharirabhutabhridbhokta kapindro bhuridakshinah॥53॥

somapo'mritapah somah purujitpurusattamah।
vinayo jayah satyasandho dasharhah satvatam patih॥54॥

jivo vinayita sakshi mukundo'mitavikramah।
ambhonidhiranantatma mahodadhishayo'ntakah॥55॥

ajo maharhah svabhavyo jitamitrah pramodanah।
anando nandano nandah satyadharma trivikramah॥56॥

maharshih kapilacharyah kritajno medinipatih।
tripadastridashadhyaksho mahasha‍ringah kritantakrit॥57॥

mahavaraho govindah sushenah kanakangadi।
guhyo gabhiro gahano guptashchakragadadharah॥58॥

vedhah svango'jitah krishno dridhah sankarshano'chyutah।
varuno varuno vrikshah pushkaraksho mahamanah॥59॥

bhagavan bhagaha''nandi vanamali halayudhah।
adityo jyotiradityah sahishnurgatisattamah॥60॥

sudhanva khandaparashurdaruno dravinapradah।
divasprik sarvadrigvyaso vachaspatirayonijah॥61॥

trisama samagah sama nirvanam bheshajam bhishak।
samnyasakrichchhamah shanto nishtha shantih parayanam॥62॥

shubhangah shantidah srashta kumudah kuvaleshayah।
gohito gopatirgopta vrishabhaksho vrishapriyah॥63॥

anivarti nivrittatma sankshepta kshemakrichchhivah।
shrivatsavakshah shrivasah shripatih shrimatam varah॥64॥

shridah shrishah shrinivasah shrinidhih shrivibhavanah।
shridharah shrikarah shreyah shrimamllokatrayashrayah॥65॥

svakshah svangah shatanando nandirjyotirganeshvarah।
vijitatma'vidheyatma satkirtishchhinnasamshayah॥66॥

udirnah sarvatashchakshuranishah shashvatasthirah।
bhushayo bhushano bhutirvishokah shokanashanah॥67॥

archishmanarchitah kumbho vishuddhatma vishodhanah।
aniruddho'pratirathah pradyumno'mitavikramah॥68॥

kalaneminiha virah shaurih shurajaneshvarah।
trilokatma trilokeshah keshavah keshiha harih॥69॥

kamadevah kamapalah kami kantah kritagamah।
anirdeshyavapurvishnurviro'nanto dhananjayah॥70॥

brahmanyo brahmakrid brahma brahma brahmavivardhanah।
brahmavid brahmano brahmi brahmajno brahmanapriyah॥71॥

mahakramo mahakarma mahateja mahoragah।
mahakraturmahayajva mahayajno mahahavih॥72॥

stavyah stavapriyah stotram stutih stota ranapriyah।
purnah purayita punyah punyakirtiranamayah॥73॥

manojavastirthakaro vasureta vasupradah।
vasuprado vasudevo vasurvasumana havih॥74॥

sadgatih satkritih satta sadbhutih satparayanah।
shuraseno yadushreshthah sannivasah suyamunah॥75॥

bhutavaso vasudevah sarvasunilayo'nalah।
darpaha darpado dripto durdharo'thaparajitah॥76॥

vishvamurtirmahamurtirdiptamurtiramurtiman।
anekamurtiravyaktah shatamurtih shatananah॥77॥

eko naikah savah kah kim yat tatpadamanuttamam।
lokabandhurlokanatho madhavo bhaktavatsalah॥78॥

suvarnavarno hemango varangashchandanangadi।
viraha vishamah shunyo ghritashirachalashchalah॥79॥

amani manado manyo lokasvami trilokadhrik।
sumedha medhajo dhanyah satyamedha dharadharah॥80॥

tejovrisho dyutidharah sarvashastrabhritam varah।
pragraho nigraho vyagro naikasha‍ringo gadagrajah॥81॥

chaturmurtishchaturbahushchaturvyuhashchaturgatih।
chaturatma chaturbhavashchaturvedavidekapat॥82॥

samavarto'nivrittatma durjayo duratikramah।
durlabho durgamo durgo duravaso durariha॥83॥

shubhango lokasarangah sutantustantuvardhanah।
indrakarma mahakarma kritakarma kritagamah॥84॥

udbhavah sundarah sundo ratnanabhah sulochanah।
arko vajasanah sha‍ringi jayantah sarvavijjayi॥85॥

suvarnabindurakshobhyah sarvavagishvareshvarah।
mahahrado mahagarto mahabhuto mahanidhih॥86॥

kumudah kundarah kundah parjanyah pavano'nilah।
amritasho'mritavapuh sarvajnah sarvatomukhah॥87॥

sulabhah suvratah siddhah shatrujichchhatrutapanah।
nyagrodho'dumbaro'shvatthashchanurandhranishudanah॥88॥

sahasrarchih saptajihvah saptaidhah saptavahanah।
amurtiranagho'chintyo bhayakridbhayanashanah॥89॥

anurbrihatkrishah sthulo gunabhrinnirguno mahan।
adhritah svadhritah svasyah pragvamsho vamshavardhanah॥90॥

bharabhrit kathito yogi yogishah sarvakamadah।
ashramah shramanah kshamah suparno vayuvahanah॥91॥

dhanurdharo dhanurvedo dando damayita damah।
aparajitah sarvasaho niyanta'niyamo'yamah॥92॥

sattvavan sattvikah satyah satyadharmaparayanah।
abhiprayah priyarho'rhah priyakrit pritivardhanah॥93॥

vihayasagatirjyotih suruchirhutabhugvibhuh।
ravirvirochanah suryah savita ravilochanah॥94॥

ananto hutabhugbhokta sukhado naikajo'grajah।
anirvinnah sadamarshi lokadhishthanamadbhutah॥95॥

sanatsanatanatamah kapilah kapiravyayah।
svastidah svastikritsvasti svastibhuksvastidakshinah॥96॥

araudrah kundali chakri vikramyurjitashasanah।
shabdatigah shabdasahah shishirah sharvarikarah॥97॥

akrurah peshalo daksho dakshinah kshaminam varah।
vidvattamo vitabhayah punyashravanakirtanah॥98॥

uttarano dushkritiha punyo duhsvapnanashanah।
viraha rakshanah santo jivanah paryavasthitah॥99॥

anantarupo'nantashrirjitamanyurbhayapahah।
chaturashro gabhiratma vidisho vyadisho dishah॥100॥

anadirbhurbhuvo lakshmih suviro ruchirangadah।
janano janajanmadirbhimo bhimaparakramah॥101॥

adharanilayo'dhata pushpahasah prajagarah।
urdhvagah satpathacharah pranadah pranavah panah॥102॥

pramanam prananilayah pranabhritpranajivanah।
tattvam tattvavidekatma janmamrityujaratigah॥103॥

bhurbhuvahsvastarustarah savita prapitamahah।
yajno yajnapatiryajva yajnango yajnavahanah॥104॥

yajnabhrid yajnakrid yajni yajnabhug yajnasadhanah।
yajnantakrid yajnaguhyamannamannada eva cha॥105॥

atmayonih svayanjato vaikhanah samagayanah।
devakinandanah srashta kshitishah papanashanah॥106॥

shankhabhrinnandaki chakri sharngadhanva gadadharah।
rathangapanirakshobhyah sarvapraharanayudhah॥107॥

vanamali gadi sharngi shankhi chakri cha nandaki।
shriman narayano vishnurvasudevo'bhirakshatu॥108॥

॥ uttaranyasah — phalashrutih ॥

itidam kirtaniyasya keshavasya mahatmanah।
namnam sahasram divyanamasheshena prakirtitam॥1॥

ya idam sha‍rinuyannityam yashchapi parikirtayet।
nashubham prapnuyatkinchitso'mutreha cha manavah॥2॥

vedantago brahmanah syatkshatriyo vijayi bhavet।
vaishyo dhanasamriddhah syachchhudrah sukhamavapnuyat॥3॥

dharmarthi prapnuyaddharmamartharthi charthamapnuyat।
kamanavapnuyatkami prajarthi prapnuyatprajam॥4॥

bhaktiman yah sadotthaya shuchistadgatamanasah।
sahasram vasudevasya namnametatprakirtayet॥5॥

yashah prapnoti vipulam jnatipradhanyameva cha।
achalam shriyamapnoti shreyah prapnotyanuttamam॥6॥

na bhayam kvachidapnoti viryam tejashcha vindati।
bhavatyarogo dyutimanbalarupagunanvitah॥7॥

rogarto muchyate rogadbaddho muchyeta bandhanat।
bhayanmuchyeta bhitastu muchyetapanna apadah॥8॥

durganyatitaratyashu purushah purushottamam।
stuvannamasahasrena nityam bhaktisamanvitah॥9॥

vasudevashrayo martyo vasudevaparayanah।
sarvapapavishuddhatma yati brahma sanatanam॥10॥

na vasudevabhaktanamashubham vidyate kvachit।
janmamrityujaravyadhibhayam naivopajayate॥11॥

imam stavamadhiyanah shraddhabhaktisamanvitah।
yujyetatmasukhakshantishridhritismritikirtibhih॥12॥

na krodho na cha matsaryam na lobho nashubha matih।
bhavanti kritapunyanam bhaktanam purushottame॥13॥

dyauh sachandrarkanakshatra kham disho bhurmahodadhih।
vasudevasya viryena vidhritani mahatmanah॥14॥

sasurasuragandharvam sayakshoragarakshasam।
jagadvashe vartatedam krishnasya sacharacharam॥15॥

indriyani mano buddhih sattvam tejo balam dhritih।
vasudevatmakanyahuh kshetram kshetrajna eva cha॥16॥

sarvagamanamacharah prathamam parikalpyate।
acharaprabhavo dharmo dharmasya prabhurachyutah॥17॥

rishayah pitaro deva mahabhutani dhatavah।
jangamajangamam chedam jagannarayanodbhavam॥18॥

yogo jnanam tatha sankhyam vidyah shilpadikarma cha।
vedah shastrani vijnanametatsarvam janardanat॥19॥

eko vishnurmahadbhutam prithagbhutanyanekashah।
trimllokanvyapya bhutatma bhunkte vishvabhugavyayah॥20॥

imam stavam bhagavato vishnorvyasena kirtitam।
pathedya ichchhetpurushah shreyah praptum sukhani cha॥21॥

vishveshvaramajam devam jagatah prabhumavyayam।
bhajanti ye pushkaraksham na te yanti parabhavam॥22॥

arjuna uvacha
padmapatravishalaksha padmanabha surottama।
bhaktanamanuraktanam trata bhava janardana॥23॥

shribhagavanuvacha
yo mam namasahasrena stotumichchhati pandava।
so'hamekena shlokena stuta eva na samshayah॥24॥

vyasa uvacha
vasanadvasudevasya vasitam bhuvanatrayam।
sarvabhutanivaso'si vasudeva namo'stu te॥25॥

parvatyuvacha
kenopayena laghuna vishnornamasahasrakam।
pathyate panditairnityam shrotumichchhamyaham prabho॥26॥

ishvara uvacha
shrirama rama rameti rame rame manorame।
sahasranama tattulyam ramanama varanane॥27॥

brahmovacha
namo'stvanantaya sahasramurtaye
sahasrapadakshishirorubahave।
sahasranamne purushaya shashvate
sahasrakotiyugadharine namah॥28॥

sanjaya uvacha
yatra yogeshvarah krishno yatra partho dhanurdharah।
tatra shrirvijayo bhutirdhruva nitirmatirmama॥29॥

kayena vacha manasendriyairva buddhyatmana va prakriteh svabhavat।
karomi yadyat sakalam parasmai narayanayeti samarpayami॥

About the Vishnu Sahasranama Stotram

The Vishnu Sahasranama — the thousand names of Lord Vishnu sung by Bhishma to Yudhishthira in the Mahabharata, one of the most revered of all stotrams.

Meaning

A garland of the thousand names of Lord Vishnu, each name revealing an aspect of his infinite nature — the all-pervading preserver, sustainer and supreme being — taught by Bhishma on the bed of arrows.

Benefits

Recited for protection, health, peace of mind, prosperity and liberation; considered a complete spiritual practice that removes fear, sin and sorrow and fulfils all righteous wishes.

The Vishnu Sahasranama Stotram above is given in both Devanagari (Sanskrit) and Roman transliteration so you can read it in whichever script you are comfortable with — switch between the two using the buttons above, share the link, or download a PDF.