Ganga Lahari
Download PDF

Ganga Lahari

The Ganga Lahari — Pandita Jagannatha's heartfelt hymn (the "wave of nectar") in praise of Mother Ganga, sung in surrender at her banks.

गंगालहरी
समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन्
महैश्वर्यं लीलाजनितजगतः खण्डपरशोः ।
श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां
सुधासोदर्यं ते सलिलमशिवं नः शमयतु ॥ १॥

दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां
द्रुतं दूरीकुर्वन् सकृदपि गतो दृष्टिसरणिम् ।
अपि द्रागाविद्याद्रुमदलनदीक्षागुरुरिह
प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः ॥ २॥

उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी-
कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः ।
भवन्तु त्वङ्गन्तो हरशिरसि गङ्गातनुभुव-
स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ॥ ३॥

तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा
मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः ।
इदानीमौदास्यं भजसि यदि भागीरथि तदा
निराधारो हा रोदिमि कथय केषामिह पुरः ॥ ४॥

स्मृतिं याता पुंसामकृतसुकृतानामपि च या
हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः ।
इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला
ममान्तःसन्तापं त्रिविधमपि पापं च हरताम् ॥ ५॥

अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा
विलोलद्वानीरं तव जननि तीरं श्रितवताम् ।
सुधातः स्वादीयस्सलिलभरमातृप्ति पिबतां
जनानामानन्दः परिहसति निर्वाणपदवीम् ॥ ६॥

प्रभाते स्नातीनां नृपतिरमणीनां कुचतटी-
गतो यावन्मातर्मिलति तव तोयैर्मृगमदः ।
मृगास्तावद्वैमानिकशतसहस्रैः परिवृता
विशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम् ॥ ७॥

स्मृतं सद्यः स्वान्तं विरचयति शान्तं सकृदपि
प्रगीतं यत्पापं झटिति भवतापं च हरति ।
इदं तद्गङ्गेति श्रवणरमणीयं खलु पदं
मम प्राणप्रान्ते वदनकमलान्तर्विलसतु ॥ ८॥

यदन्तः खेलन्तो बहुलतरसन्तोषभरिता
न काका नाकाधीश्वरनगरसाकाङ्क्षमनसः ।
निवासाल्लोकानां जनिमरणशोकापहरणं
तदेतत्ते तीरं श्रमशमनधीरं भवतु नः ॥ ९॥

न यत्साक्षाद्वेदैरपि गलितभेदैरवसितं
न यस्मिन् जीवानां प्रसरति मनोवागवसरः ।
निराकारं नित्यं निजमहिमनिर्वासिततमो
विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः ॥ १०॥

महादानैर्ध्यानैर्बहुविधवितानैरपि च यन्
न लभ्यं घोराभिः सुविमलतपोराशिभिरपि ।
अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया
ददाना केनासि त्वमिह तुलनीया कथय नः ॥ ११॥

नृणामीक्षामात्रादपि परिहरन्त्या भवभयं
शिवायास्ते मूर्तेः क इह महिमानं निगदतु ।
अमर्षम्लानायाः परममनुरोधं गिरिभुवो
विहाय श्रीकण्ठः शिरसि नियतं धारयति याम् ॥ १२॥

विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै-
रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः ।
हरन्ती लोकानामनवरतमेनांसि कियतां
कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥ १३॥

स्खलन्ती स्वर्लोकादवनितलशोकापहृतये
जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा ।
अये निर्लोभानामपि मनसि लोभं जनयतां
गुणानामेवायं तव जननि दोषः परिणतः ॥ १४॥

जडानन्धान् पङ्गून् प्रकृतिबधिरानुक्तिविकलान्
ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् ।
निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो
नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥ १५॥

स्वभावस्वच्छानां सहजशिशिराणामयमपा-
मपारस्ते मातर्जयति महिमा कोऽपि जगति ।
मुदायं गायन्ति द्युतलमनवद्यद्युतिभृतः
समासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः ॥ १६॥

कृतक्षुद्रैनस्कानथ झटिति सन्तप्तमनसः
समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।
अपि प्रायश्चित्तप्रसरणपथातीतचरिता-
न्नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥ १७॥

निधानं धर्माणां किमपि च विधानं नवमुदां
प्रधानं तीर्थानाममलपरिधानं त्रिजगतः ।
समाधानं बुद्धेरथ खलु तिरोधानमधियां
श्रियामाधानं नः परिहरतु तापं तव वपुः ॥ १८॥

पुरो धावं धावं द्रविणमदिराघूर्णितदृशां
महीपानां नानातरुणतरखेदस्य नियतम् ।
ममैवायं मन्तुः स्वहितशतहन्तुर्जडधियो
वियोगस्ते मातर्यदिह करुणातः क्षणमपि ॥ १९॥

मरुल्लीलालोलल्लहरिलुलिताम्भोजपटली-
स्खलत्पांसुव्रातच्छुरणविसरत्कौङ्कुमरुचि ।
सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं
जलं ते जम्बालं मम जननजालं जरयतु ॥ २०॥

समुत्पत्तिः पद्मारमणपदपद्मामलनखा-
न्निवासः कन्दर्पप्रतिभटजटाजूटभवने ।
अथाऽयं व्यासङ्गो हतपतितनिस्तारणविधौ
न कस्मादुत्कर्षस्तव जननि जागर्तु जगति ॥ २१॥

नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे ।
कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै-
स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ॥ २२॥

विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो
सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।
कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः
सवित्री कामानां यदि जगति जागर्ति जननी ॥ २३॥

अनाथः स्नेहार्द्रां विगलितगतिः पुण्यगतिदां
पतन् विश्वोद्धर्त्रीं गदविगलितः सिद्धभिषजम् ।
सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं
शिशुः सम्प्राप्तस्त्वामहमिह विदध्याः समुचितम् ॥ २४॥

विलीनो वै वैवस्वतनगरकोलाहलभरो
गता दूता दूरं क्वचिदपि परेतान् मृगयितुम् ।
विमानानां व्रातो विदलयति वीथिर्दिविषदां
कथा ते कल्याणी यदवधि महीमण्डलमगात् ॥ २५॥

स्फुरत्कामक्रोधप्रबलतरसञ्जातजटिल-
ज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम् ।
हरन्तां सन्तापं कमपि मरुदुल्लासलहरि-
च्छटाचञ्चत्पाथःकणसरणयो दिव्यसरितः ॥ २६॥

इदं हि ब्रह्माण्डं सकलभुवनाभोगभवनं
तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव ।
स एष श्रीकण्ठप्रविततजटाजूटजटिलो
जलानां सङ्घातस्तव जननि तापं हरतु नः ॥ २७॥

त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ
करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः ।
इमं त्वं मामम्ब त्वमियमनुकम्पार्द्रहृदये
पुनाना सर्वेषामघमथनदर्पं दलयसि ॥ २८॥

श्वपाकानां व्रातैरमितविचिकित्साविचलितै-
र्विमुक्तानामेकं किल सदनमेनःपरिषदाम् ।
अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरं
तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥ २९॥

न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो
यदुद्धारादाराद्भवति जगतो विस्मयभरः ।
इतीमामीहां ते मनसि चिरकालं स्थितवती-
मयं सम्प्राप्तोऽहं सफलयितुमम्ब प्रणय नः ॥ ३०॥

श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं
कुतर्केश्वभ्यासः सततपरपैशुन्यमननम् ।
अपि श्रावं श्रावं मम तु पुनरेवं गुणगणा-
नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥ ३१॥

विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं
न याभ्यामालीढा परमरमणीया तव तनुः ।
अयं हि न्यक्कारो जननि मनुजस्य श्रवणयो-
र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः ॥ ३२॥

विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः
पतन्ति द्राक् पापा जननि नरकान्तः परवशाः ।
विभागोऽयं तस्मिन्नशुभमयमूर्तौ जनपदे
न यत्र त्वं लीलादलितमनुजाशेषकलुषा ॥ ३३॥

अपि घ्नन्तो विप्रानविरतमुशन्तो गुरुसतीः
पिबन्तो मैरेयं पुनरपि हरन्तश्च कनकम् ।
विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषा-
मुपर्यम्ब क्रीडन्त्यखिलसुरसम्भावितपदाः ॥ ३४॥

अलभ्यं सौरभ्यं हरति सततं यः सुमनसां
क्षणादेव प्राणानपि विरहशस्त्रक्षतहृदाम् ।
त्वदीयानां लीलाचलितलहरीणां व्यतिकरात्
पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥ ३५॥

कियन्तः सन्त्येके नियतमिहलोकार्थघटकाः
परे पूतात्मानः कति च परलोकप्रणयिनः ।
सुखं शेते मातस्तव खलु कृपातः पुनरयं
जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ॥ ३६॥

भवत्या हि व्रात्याधमपतितपाखण्डपरिषत्
परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा ।
ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति
स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥ ३७॥

प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा-
तटाभोगप्रेङ्खल्लहरिभुजसन्तानविधुतिः ।
बिलक्रोडक्रीडज्जलडमरुटङ्कारसुभग-
स्तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः ॥ ३८॥

सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं
यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे ।
तदा विश्वासोऽयं त्रिभुवनतलादस्तमयते
निराधारा चेयं भवति खलु निर्व्याजकरुणा ॥ ३९॥

कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेः
पुरारेः प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ ।
भवान्या सापत्न्यस्फुरितनयनं कोमलरुचा
करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः ॥ ४०॥

प्रपद्यन्ते लोकाः कति न भवतीमत्रभवती-
मुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि ।
शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि
स्वभावादेव त्वय्यमितमनुरागं विधृतवान् ॥ ४१॥

ललाटे या लोकैरिह खलु सलीलं तिलकिता
तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् ।
विलुम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिं
त्वदीया सा मृत्स्ना मम हरतु कृत्स्नामपि शुचम् ॥ ४२॥

नरान् मूढांस्तत्तज्जनपदसमासक्तमनसो
हसन्तः सोल्लासं विकचकुसुमव्रातमिषतः ।
पुनानाः सौरभ्यैः सततमलिनो नित्यमलिनान्
सखायो नः सन्तु त्रिदशतटिनीतीरतरवः ॥ ४३॥

यजन्त्येके देवान् कठिनतरसेवांस्तदपरे
वितानव्यासक्ता यमनियमरक्ताः कतिपये ।
अहं तु त्वन्नामस्मरणकृतकामस्त्रिपथगे
जगज्जालं जाने जननि तृणजालेन सदृशम् ॥ ४४॥

अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां
सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः ।
निरस्तालम्बानामकृतसुकृतानां तु भवतीं
विनाऽमुष्मिंल्लोके न परमवलोके हितकरम् ॥ ४५॥

पयः पीत्वा मातस्तव सपदि यातः सहचरै-
र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् ।
इदानीमुत्सङ्गे मृदुपवनसञ्चारशिशिरे
चिरादुन्निद्रं मां सदयहृदये शायय चिरम् ॥ ४६॥

बधान द्रागेव द्रढिमरमणीयं परिकरं
किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः ।
न कुर्यास्त्वं हेलामितरजनसाधारणतया
जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥ ४७॥

शरच्चन्द्रश्वेतां शशिशकलश्वेतालमुकुटां
करैः कुम्भाम्भोजे वरभयनिरासौ च दधतीम् ।
सुधाधाराकाराभरणवसनां शुभ्रमकर-
स्थितां त्वां ये ध्यायन्त्युदयति न तेषां परिभवः ॥ ४८॥

दरस्मितसमुल्लसद्वदनकान्तिपूरामृतै-
र्भवज्वलनभर्जिताननिशमूर्जयन्ती नरान् ।
चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वती
तनोतु मम शन्तनोः सपदि शन्तनोरङ्गना ॥ ४९॥

मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः
स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतैर्ग्रावभिः ।
वीचिक्षालितकालियाहितपदे स्वर्लोककल्लोलिनि
त्वं तापं तिरयाधुना मम भवज्वालावलीढात्मनः ॥ ५०॥

द्यूते नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दीन्दुमुख्यं
सर्वस्वं हारयित्वा स्वमथ पुरभिदि द्राक् पणीकर्तुकामे ।
साकूतं हैमवत्या मृदुलहसितया वीक्षितायास्तवाम्ब
व्यालोलोल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु ॥ ५१॥

विभूषितानङ्गरिपूत्तमाङ्गा सद्यःकृतानेकजनार्तिभङ्गा ।
मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु ॥ ५२॥

इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् ।
यः पठेत्तस्य सर्वत्र जायन्ते सुखसम्पदः ॥ ५३॥

gamgalahari
samriddham saubhagyam sakalavasudhayah kimapi tan
mahaishvaryam lilajanitajagatah khandaparashoh ।
shrutinam sarvasvam sukritamatha murtam sumanasam
sudhasodaryam te salilamashivam nah shamayatu ॥ 1॥

daridranam dainyam duritamatha durvasanahridam
drutam durikurvan sakridapi gato drishtisaranim ।
api dragavidyadrumadalanadikshagururiha
pravahaste varam shriyamayamaparam dishatu nah ॥ 2॥

udanchanmartandasphutakapataherambajanani-
katakshavyakshepakshanajanitasamkshobhanivahah ।
bhavantu tvanganto harashirasi gangatanubhuva-
starangah prottunga duritabhayabhangaya bhavatam ॥ 3॥

tavalambadamba sphuradalaghugarvena sahasa
maya sarve'vajnasaranimatha nitah suraganah ।
idanimaudasyam bhajasi yadi bhagirathi tada
niradharo ha rodimi kathaya keshamiha purah ॥ 4॥

smritim yata pumsamakritasukritanamapi cha ya
haratyantastandram timiramiva chandramshusaranih ।
iyam sa te murtih sakalasurasamsevyasalila
mamantahsantapam trividhamapi papam cha haratam ॥ 5॥

api prajyam rajyam trinamiva parityajya sahasa
viloladvaniram tava janani tiram shritavatam ।
sudhatah svadiyassalilabharamatripti pibatam
jananamanandah parihasati nirvanapadavim ॥ 6॥

prabhate snatinam nripatiramaninam kuchatati-
gato yavanmatarmilati tava toyairmrigamadah ।
mrigastavadvaimanikashatasahasraih parivrita
vishanti svachchhandam vimalavapusho nandanavanam ॥ 7॥

smritam sadyah svantam virachayati shantam sakridapi
pragitam yatpapam jhatiti bhavatapam cha harati ।
idam tadgangeti shravanaramaniyam khalu padam
mama pranaprante vadanakamalantarvilasatu ॥ 8॥

yadantah khelanto bahulatarasantoshabharita
na kaka nakadhishvaranagarasakankshamanasah ।
nivasallokanam janimaranashokapaharanam
tadetatte tiram shramashamanadhiram bhavatu nah ॥ 9॥

na yatsakshadvedairapi galitabhedairavasitam
na yasmin jivanam prasarati manovagavasarah ।
nirakaram nityam nijamahimanirvasitatamo
vishuddham yattattvam suratatini tattvam na vishayah ॥ 10॥

mahadanairdhyanairbahuvidhavitanairapi cha yan
na labhyam ghorabhih suvimalataporashibhirapi ।
achintyam tadvishnoh padamakhilasadharanataya
dadana kenasi tvamiha tulaniya kathaya nah ॥ 11॥

nrinamikshamatradapi pariharantya bhavabhayam
shivayaste murteh ka iha mahimanam nigadatu ।
amarshamlanayah paramamanurodham giribhuvo
vihaya shrikanthah shirasi niyatam dharayati yam ॥ 12॥

vinindyanyunmattairapi cha pariharyani patitai-
ravachyani vratyaih sapulakamapasyani pishunaih ।
haranti lokanamanavaratamenamsi kiyatam
kadapyashranta tvam jagati punareka vijayase ॥ 13॥

skhalanti svarlokadavanitalashokapahritaye
jatajutagranthau yadasi vinibaddha purabhida ।
aye nirlobhanamapi manasi lobham janayatam
gunanamevayam tava janani doshah parinatah ॥ 14॥

jadanandhan pangun prakritibadhiranuktivikalan
grahagrastanastakhiladuritanistarasaranin ।
nilimpairnirmuktanapi cha nirayantarnipatato
naranamba tratum tvamiha paramam bheshajamasi ॥ 15॥

svabhavasvachchhanam sahajashishiranamayamapa-
maparaste matarjayati mahima ko'pi jagati ।
mudayam gayanti dyutalamanavadyadyutibhritah
samasadyadyapi sphutapulakasandrah sagarajah ॥ 16॥

kritakshudrainaskanatha jhatiti santaptamanasah
samuddhartum santi tribhuvanatale tirthanivahah ।
api prayashchittaprasaranapathatitacharita-
nnaranurikartum tvamiva janani tvam vijayase ॥ 17॥

nidhanam dharmanam kimapi cha vidhanam navamudam
pradhanam tirthanamamalaparidhanam trijagatah ।
samadhanam buddheratha khalu tirodhanamadhiyam
shriyamadhanam nah pariharatu tapam tava vapuh ॥ 18॥

puro dhavam dhavam dravinamadiraghurnitadrisham
mahipanam nanatarunatarakhedasya niyatam ।
mamaivayam mantuh svahitashatahanturjadadhiyo
viyogaste mataryadiha karunatah kshanamapi ॥ 19॥

marullilalolallaharilulitambhojapatali-
skhalatpamsuvratachchhuranavisaratkaunkumaruchi ।
surastrivakshojaksharadagarujambalajatilam
jalam te jambalam mama jananajalam jarayatu ॥ 20॥

samutpattih padmaramanapadapadmamalanakha-
nnivasah kandarpapratibhatajatajutabhavane ।
atha'yam vyasango hatapatitanistaranavidhau
na kasmadutkarshastava janani jagartu jagati ॥ 21॥

nagebhyo yantinam kathaya tatininam katamaya
puranam samhartuh suradhuni kapardo'dhiruruhe ।
kaya va shribhartuh padakamalamakshali salilai-
stulalesho yasyam tava janani diyeta kavibhih ॥ 22॥

vidhattam nihshankam niravadhi samadhim vidhiraho
sukham sheshe shetam hariraviratam nrityatu harah ।
kritam prayashchittairalamatha tapodanayajanaih
savitri kamanam yadi jagati jagarti janani ॥ 23॥

anathah snehardram vigalitagatih punyagatidam
patan vishvoddhartrim gadavigalitah siddhabhishajam ।
sudhasindhum trishnakulitahridayo mataramayam
shishuh sampraptastvamahamiha vidadhyah samuchitam ॥ 24॥

vilino vai vaivasvatanagarakolahalabharo
gata duta duram kvachidapi paretan mrigayitum ।
vimananam vrato vidalayati vithirdivishadam
katha te kalyani yadavadhi mahimandalamagat ॥ 25॥

sphuratkamakrodhaprabalatarasanjatajatila-
jvarajvalajalajvalitavapusham nah pratidinam ।
harantam santapam kamapi marudullasalahari-
chchhatachanchatpathahkanasaranayo divyasaritah ॥ 26॥

idam hi brahmandam sakalabhuvanabhogabhavanam
tarangairyasyantarluthati paritastindukamiva ।
sa esha shrikanthapravitatajatajutajatilo
jalanam sanghatastava janani tapam haratu nah ॥ 27॥

trapante tirthani tvaritamiha yasyoddhritividhau
karam karne kurvantyapi kila kapaliprabhritayah ।
imam tvam mamamba tvamiyamanukampardrahridaye
punana sarveshamaghamathanadarpam dalayasi ॥ 28॥

shvapakanam vratairamitavichikitsavichalitai-
rvimuktanamekam kila sadanamenahparishadam ।
aho mamuddhartum janani ghatayantyah parikaram
tava shlagham kartum kathamiva samartho narapashuh ॥ 29॥

na ko'pyetavantam khalu samayamarabhya milito
yaduddharadaradbhavati jagato vismayabharah ।
itimamiham te manasi chirakalam sthitavati-
mayam samprapto'ham saphalayitumamba pranaya nah ॥ 30॥

shvavrittivyasango niyatamatha mithyapralapanam
kutarkeshvabhyasah satataparapaishunyamananam ।
api shravam shravam mama tu punarevam gunagana-
nrite tvatko nama kshanamapi niriksheta vadanam ॥ 31॥

vishalabhyamabhyam kimiha nayanabhyam khalu phalam
na yabhyamalidha paramaramaniya tava tanuh ।
ayam hi nyakkaro janani manujasya shravanayo-
ryayornantaryatastava laharililakalakalah ॥ 32॥

vimanaih svachchhandam surapuramayante sukritinah
patanti drak papa janani narakantah paravashah ।
vibhago'yam tasminnashubhamayamurtau janapade
na yatra tvam liladalitamanujasheshakalusha ॥ 33॥

api ghnanto vipranaviratamushanto gurusatih
pibanto maireyam punarapi harantashcha kanakam ।
vihaya tvayyante tanumatanudanadhvarajusha-
muparyamba kridantyakhilasurasambhavitapadah ॥ 34॥

alabhyam saurabhyam harati satatam yah sumanasam
kshanadeva prananapi virahashastrakshatahridam ।
tvadiyanam lilachalitalaharinam vyatikarat
punite so'pi dragahaha pavamanastribhuvanam ॥ 35॥

kiyantah santyeke niyatamihalokarthaghatakah
pare putatmanah kati cha paralokapranayinah ।
sukham shete matastava khalu kripatah punarayam
jagannathah shashvattvayi nihitalokadvayabharah ॥ 36॥

bhavatya hi vratyadhamapatitapakhandaparishat
paritranasnehah shlathayitumashakyah khalu yatha ।
mamapyevam prema duritanivaheshvamba jagati
svabhavo'yam sarvairapi khalu yato dushpariharah ॥ 37॥

pradoshantarnrityatpuramathanaliloddhritajata-
tatabhogaprenkhallaharibhujasantanavidhutih ।
bilakrodakridajjaladamarutankarasubhaga-
stirodhattam tapam tridashatatinitandavavidhih ॥ 38॥

sadaiva tvayyevarpitakushalachintabharamimam
yadi tvam mamamba tyajasi samaye'sminsuvishame ।
tada vishvaso'yam tribhuvanataladastamayate
niradhara cheyam bhavati khalu nirvyajakaruna ॥ 39॥

kapardadullasya pranayamiladardhangayuvateh
purareh prenkhantyo mridulatarasimantasaranau ।
bhavanya sapatnyasphuritanayanam komalarucha
karenakshiptaste janani vijayantam laharayah ॥ 40॥

prapadyante lokah kati na bhavatimatrabhavati-
mupadhistatrayam sphurati yadabhishtam vitarasi ।
shape tubhyam matarmama tu punaratma suradhuni
svabhavadeva tvayyamitamanuragam vidhritavan ॥ 41॥

lalate ya lokairiha khalu salilam tilakita
tamo hantum dhatte tarunataramartandatulanam ।
vilumpanti sadyo vidhilikhitadurvarnasaranim
tvadiya sa mritsna mama haratu kritsnamapi shucham ॥ 42॥

naran mudhamstattajjanapadasamasaktamanaso
hasantah sollasam vikachakusumavratamishatah ।
punanah saurabhyaih satatamalino nityamalinan
sakhayo nah santu tridashatatinitirataravah ॥ 43॥

yajantyeke devan kathinatarasevamstadapare
vitanavyasakta yamaniyamaraktah katipaye ।
aham tu tvannamasmaranakritakamastripathage
jagajjalam jane janani trinajalena sadrisham ॥ 44॥

avishrantam janmavadhi sukritajanmarjanakritam
satam shreyah kartum kati na kritinah santi vibudhah ।
nirastalambanamakritasukritanam tu bhavatim
vina'mushmimlloke na paramavaloke hitakaram ॥ 45॥

payah pitva matastava sapadi yatah sahacharai-
rvimudhaih samrantum kvachidapi na vishrantimagamam ।
idanimutsange mridupavanasancharashishire
chiradunnidram mam sadayahridaye shayaya chiram ॥ 46॥

badhana drageva dradhimaramaniyam parikaram
kirite balendum niyamaya punah pannagaganaih ।
na kuryastvam helamitarajanasadharanataya
jagannathasyayam suradhuni samuddharasamayah ॥ 47॥

sharachchandrashvetam shashishakalashvetalamukutam
karaih kumbhambhoje varabhayanirasau cha dadhatim ।
sudhadharakarabharanavasanam shubhramakara-
sthitam tvam ye dhyayantyudayati na tesham paribhavah ॥ 48॥

darasmitasamullasadvadanakantipuramritai-
rbhavajvalanabharjitananishamurjayanti naran ।
chidekamayachandrikachayachamatkritim tanvati
tanotu mama shantanoh sapadi shantanorangana ॥ 49॥

mantrairmilitamaushadhairmukulitam trastam suranam ganaih
srastam sandrasudharasairvidalitam garutmatairgravabhih ।
vichikshalitakaliyahitapade svarlokakallolini
tvam tapam tirayadhuna mama bhavajvalavalidhatmanah ॥ 50॥

dyute nagendrakrittipramathaganamanishreninandindumukhyam
sarvasvam harayitva svamatha purabhidi drak panikartukame ।
sakutam haimavatya mridulahasitaya vikshitayastavamba
vyalolollasivalgallaharinataghatitandavam nah punatu ॥ 51॥

vibhushitanangariputtamanga sadyahkritanekajanartibhanga ।
manoharottungachalattaranga ganga mamanganyamalikarotu ॥ 52॥

imam piyushalaharim jagannathena nirmitam ।
yah pathettasya sarvatra jayante sukhasampadah ॥ 53॥

About the Ganga Lahari

The Ganga Lahari — Pandita Jagannatha's heartfelt hymn (the "wave of nectar") in praise of Mother Ganga, sung in surrender at her banks.

Meaning

In flowing verses the poet glorifies Mother Ganga as the purifier of sins, the nectar-stream from Vishnu's feet, and surrenders to her for forgiveness and liberation.

Benefits

Recited for purification, forgiveness of sins and liberation; a moving prayer of surrender to Ganga believed to cleanse the heart and bestow grace.

The Ganga Lahari above is given in both Devanagari (Sanskrit) and Roman transliteration so you can read it in whichever script you are comfortable with — switch between the two using the buttons above, share the link, or download a PDF.