Rudram
Download PDF

Sri Rudram — Namakam & Chamakam

The Sri Rudram — the great Vedic hymn to Lord Rudra (Shiva) from the Yajurveda, in two parts: the Namakam (salutations) and the Chamakam (requests).

श्री रुद्रं नमकम् · Namakam

ओं नमो भगवते रुद्राय ॥ नमस्ते रुद्र मन्यव उतोत इषवे नमः । नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ॥

या त इषुः शिवतमा शिवम्बभूव ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ।

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥

यामिषुङ्गिरिशन्त हस्ते बिभर्ष्यस्तवे । शिवाङ्गिरित्र ताङ्कुरु मा हिग्ंसीः पुरुषञ्जगत् ॥

शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नस्सर्वमिज्जगदयक्ष्मग्ं सुमना असत् ॥

अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहीग्श्च सर्वाञ्जम्भयन्थ्सर्वाश्च यातुधान्यः ॥

असौ यस्ताम्रो अरुण उत बभ्रुस्सुमङ्गलः । ये चेमाग्ं रुद्रा अभितो दिक्षु श्रितास्सहस्रशोऽवैषाग्ं हेड ईमहे ॥

असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनङ्गोपा अदृशन्नदृशन्नुदहार्यः । उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानोऽहन्तेभ्योऽकरन्नमः ॥

प्रमुञ्च धन्वनस्त्वमुभयोरार्त्नि योर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ॥

अवतत्य धनुस्त्वग्ं सहस्राक्ष शतेषुधे । निशीर्य शल्यानाम्मुखा शिवो नः सुमना भव ॥

विज्यन्धनुः कपर्दिनो विशल्यो बाणवाग्ं उत । अनेशन्नस्येषव आभुरस्य निषङ्गथिः ॥

या ते हेतिर्मीडुष्टम हस्ते बभूव ते धनुः । तयाऽस्मान् विश्वतस्त्वमयक्ष्मया परिब्भुज ॥

नमस्ते अस्त्वायुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यान्तव धन्वने ॥

परि ते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः । अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥ १ ॥

नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ।

नमो हिरण्य बाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम्पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनाम्पतये नमो नमो बभ्लुशाय विव्याधिनेऽन्नानाम्पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम्पतये नमो नमो भवस्य हेत्यै जगताम्पतये नमो नमो रुद्रायातताविने क्षेत्राणाम्पतये नमो नमस्सूतायाहन्त्याय वनानाम्पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम्पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम्पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम्पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनाम्पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनाम्पतये नमः ॥ २ ॥

नमस्सहमानाय निव्याधिन आव्याधिनीनाम्पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानाम्पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम्पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम्पतये नमो नमो निचेरवे परिचरायारण्यानाम्पतये नमो नमः सृकाविभ्यो जिघाग्ंसद्भ्यो मुष्णताम्पतये नमो नमोऽसिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानाम्पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम्पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥ ३ ॥

नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृग्ंहतीभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमस्सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः क्षत्तृभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यः श्वनिभ्यश्च वो नमो नमश्श्वभ्यश्श्वपतिभ्यश्च वो नमः ॥ ४ ॥

नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च नमश्शीघ्रियाय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमः स्रोतस्याय च द्वीप्याय च ॥ ५ ॥

नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नमश्श्लोक्याय चाऽवसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमश्शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च ॥ ६ ॥

नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमस्स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमस्सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च ॥ ७ ॥

नमस्सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमश्शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कूल्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च नमश्शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥ ८ ॥

नम इरिण्याय च प्रपथ्याय च नमः किग्ंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो ह्रदय्याय च निवेष्प्याय च नमः पाग्ंसव्याय च रजस्याय च नमश्शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोऽपगुरमाणाय चाभिघ्नते च नम आख्खिदते च प्रख्खिदते च नमो वः किरिकेभ्यो देवानाग्ं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥ ९ ॥

द्रापे अन्धसस्पते दरिद्रन्नीललोहित । एषाम्पुरुषाणामेषाम्पशूनाम्मा भेर्माऽरो मो एषाङ्किञ्चनाममत् ।

या ते रुद्र शिवा तनूश्शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥

इमाग्ं रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् । यथा नश्शमसद्द्विपदे चतुष्पदे विश्वम्पुष्टङ्ग्रामे अस्मिन्ननातुरम् ।

मृडा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते । यच्छञ्च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ।

मा नो महान्तमुत मा नो अर्भकम्मा न उक्षन्तमुत मा न उक्षितम् । मा नोऽवधीः पितरम्मोत मातरम्प्रिया मा नस्तनुवो रुद्र रीरिषः ।

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितोऽवधीर्हविष्मन्तो नमसा विधेम ते ।

आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु । रक्षा च नो अधि च देव ब्रूह्यधा च नश्शर्म यच्छ द्विबर्हाः ।

स्तुहि श्रुतङ्गर्तसदं युवानम्मृगन्न भीममुपहत्नुमुग्रम् । मृडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः ।

परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मति रघायोः । अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ।

मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष आयुधन्निधाय कृत्तिं वसान आचर पिनाकम्बिभ्रदागहि ।

विकिरिद विलोहित नमस्ते अस्तु भगवः । यास्ते सहस्रग्ं हेतयोन्यमस्मन्निवपन्तु ताः ।

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः । तासामीशानो भगवः पराचीना मुखा कृधि ॥ १० ॥

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् । तेषाग्ं सहस्रयोजनेऽवधन्वानि तन्मसि ।

अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि । नीलग्रीवाश्शितिकण्ठाश्शर्वा अधः क्षमाचराः ।

नीलग्रीवाश्शितिकण्ठा दिवग्ं रुद्रा उपश्रिताः । ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ।

ये भूतानामधिपतयो विशिखासः कपर्दिनः । ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । ये पथाम्पथिरक्षय ऐलबृदा यव्युधः । ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः । य एतावन्तश्च भूयाग्ंसश्च दिशो रुद्रा वितस्थिरे । तेषाग्ं सहस्रयोजनेऽवधन्वानि तन्मसि । नमो रुध्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यन्द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥ ११ ॥

श्री रुद्रं चमकम् · Chamakam

ओं अग्नाविष्णू सजोषसेमावर्धन्तु वाङ्गिरः । द्युम्नैर्वाजेभिरागतम् । वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तञ्च म आधीतञ्च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रञ्च मे दक्षश्च मे बलञ्च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थानि च मे परूग्ंषि च मे शरीराणि च मे ॥ १ ॥

जैष्ठ्यञ्च म आधिपत्यञ्च मे मन्युश्च मे भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धञ्च मे वृद्धिश्च मे सत्यञ्च मे श्रद्धा च मे जगच्च मे धनञ्च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातञ्च मे जनिष्यमाणञ्च मे सूक्तञ्च मे सुकृतञ्च मे वित्तञ्च मे वेद्यञ्च मे भूतञ्च मे भविष्यच्च मे सुगञ्च मे सुपथञ्च म ऋद्धञ्च म ऋद्धिश्च मे कॢप्तञ्च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे ॥ २ ॥

शञ्च मे मयश्च मे प्रियञ्च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च मे महश्च मे संविच्च मे ज्ञात्रञ्च मे सूश्च मे प्रसूश्च मे सीरञ्च मे लयश्च म ऋतञ्च मेऽमृतञ्च मेऽयक्ष्मञ्च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वञ्च मेऽनमित्रञ्च मेऽभयञ्च मे सुगञ्च मे शयनञ्च मे सूषा च मे सुदिनञ्च मे ॥ ३ ॥

ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतञ्च मे मधु च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रञ्च म औद्भिद्यञ्च मे रयिश्च मे रायश्च मे पुष्टञ्च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णञ्च मे पूर्णतरञ्च मेऽक्षितिश्च मे कूयवाश्च मेऽन्नञ्च मेऽक्षुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मेऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे ॥ ४ ॥

अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यञ्च मेऽयश्च मे सीसञ्च मे त्रपुश्च मे श्यामञ्च मे लोहञ्च मेऽग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्यञ्च मेऽकृष्टपच्यञ्च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तञ्च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च म एमश्च म इतिश्च मे गतिश्च मे ॥ ५ ॥

अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षञ्च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे ॥ ६ ॥

अग्ंशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म उपाग्ंशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च म ऋतुग्रहाश्च मेऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हारियोजनश्च मे ॥ ७ ॥

इध्मश्च मे बर्हिश्च मे वेदिश्च मे दिष्णियाश्च मे स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मेऽधिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नीध्रञ्च मे हविर्धानञ्च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे स्वगाकारश्च मे ॥ ८ ॥

अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतञ्च मेऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥ ९ ॥

गर्भाश्च मे वत्साश्च मे त्र्यविश्च मे त्र्यवीच मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म उक्षा च मे वशा च म ऋषभश्च मे वेहच्च मेऽनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पतां श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् ॥ १० ॥

एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविग्ंशतिश्च मे त्रयोविग्ंशतिश्च मे पञ्चविग्ंशतिश्च मे सप्तविग्ंशतिश्च मे नवविग्ंशतिश्च म एकत्रिग्ंशच्च मे त्रयस्त्रिग्ंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विग्ंशतिश्च मे चतुर्विग्ंशतिश्च मेऽष्टाविग्ंशतिश्च मे द्वात्रिग्ंशच्च मे षट्त्रिग्ंशच्च मे चत्वारिग्ंशच्च मे चतुश्चत्वारिग्ंशच्च मेऽष्टाचत्वारिग्ंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च ॥ ११ ॥

ओं इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि शग्ंसिषद्विश्वे देवास्सूक्तवाचः पृथिविमातर्मा मा हिग्ंसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीन्देवेभ्यो वाचमुद्यासग्ंशुश्रूषेण्याम् मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॥

ओं शान्तिः शान्तिः शान्तिः ॥

shri rudram namakam · Namakam

om namo bhagavate rudraya ॥ namaste rudra manyava utota ishave namah । namaste astu dhanvane bahubhyamuta te namah ॥

ya ta ishuh shivatama shivambabhuva te dhanuh । shiva sharavya ya tava taya no rudra mridaya ।

ya te rudra shiva tanuraghora'papakashini । taya nastanuva shantamaya girishantabhichakashihi ॥

yamishungirishanta haste bibharshyastave । shivangiritra tankuru ma higmsih purushanjagat ॥

shivena vachasa tva girishachchha vadamasi । yatha nassarvamijjagadayakshmagm sumana asat ॥

adhyavochadadhivakta prathamo daivyo bhishak । ahigshcha sarvanjambhayanthsarvashcha yatudhanyah ॥

asau yastamro aruna uta babhrussumangalah । ye chemagm rudra abhito dikshu shritassahasrasho'vaishagm heda imahe ॥

asau yo'vasarpati nilagrivo vilohitah । utainangopa adrishannadrishannudaharyah । utainam vishva bhutani sa drishto mridayati nah ॥

namo astu nilagrivaya sahasrakshaya midhushe । atho ye asya satvano'hantebhyo'karannamah ॥

pramuncha dhanvanastvamubhayorartni yorjyam । yashcha te hasta ishavah para ta bhagavo vapa ॥

avatatya dhanustvagm sahasraksha shateshudhe । nishirya shalyanammukha shivo nah sumana bhava ॥

vijyandhanuh kapardino vishalyo banavagm uta । aneshannasyeshava abhurasya nishangathih ॥

ya te hetirmidushtama haste babhuva te dhanuh । taya'sman vishvatastvamayakshmaya paribbhuja ॥

namaste astvayudhayanatataya dhrishnave । ubhabhyamuta te namo bahubhyantava dhanvane ॥

pari te dhanvano hetirasman vrinaktu vishvatah । atho ya ishudhistavare asmannidhehi tam ॥ 1 ॥

namaste astu bhagavanvishveshvaraya mahadevaya tryambakaya tripurantakaya trikagnikalaya kalagnirudraya nilakanthaya mrityunjayaya sarveshvaraya sadashivaya shrimanmahadevaya namah ।

namo hiranya bahave senanye dishancha pataye namo namo vrikshebhyo harikeshebhyah pashunampataye namo namah saspinjaraya tvishimate pathinampataye namo namo babhlushaya vivyadhine'nnanampataye namo namo harikeshayopavitine pushtanampataye namo namo bhavasya hetyai jagatampataye namo namo rudrayatatavine kshetranampataye namo namassutayahantyaya vananampataye namo namo rohitaya sthapataye vrikshanampataye namo namo mantrine vanijaya kakshanampataye namo namo bhuvantaye varivaskritayaushadhinampataye namo nama uchchairghoshayakrandayate pattinampataye namo namah kritsnavitaya dhavate sattvanampataye namah ॥ 2 ॥

namassahamanaya nivyadhina avyadhininampataye namo namah kakubhaya nishangine stenanampataye namo namo nishangina ishudhimate taskaranampataye namo namo vanchate parivanchate stayunampataye namo namo nicherave paricharayaranyanampataye namo namah srikavibhyo jighagmsadbhyo mushnatampataye namo namo'simadbhyo naktancharadbhyah prakrintanampataye namo nama ushnishine giricharaya kulunchanampataye namo nama ishumadbhyo dhanvavibhyashcha vo namo nama atanvanebhyah pratidadhanebhyashcha vo namo nama ayachchhadbhyo visrijadbhyashcha vo namo namo'syadbhyo vidyadbhyashcha vo namo nama asinebhyashshayanebhyashcha vo namo namah svapadbhyo jagradbhyashcha vo namo namastishthadbhyo dhavadbhyashcha vo namo namah sabhabhyah sabhapatibhyashcha vo namo namo ashvebhyo'shvapatibhyashcha vo namah ॥ 3 ॥

nama avyadhinibhyo vividhyantibhyashcha vo namo nama uganabhyastrigmhatibhyashcha vo namo namo gritsebhyo gritsapatibhyashcha vo namo namo vratebhyo vratapatibhyashcha vo namo namo ganebhyo ganapatibhyashcha vo namo namo virupebhyo vishvarupebhyashcha vo namo namo mahadbhyah kshullakebhyashcha vo namo namo rathibhyo'rathebhyashcha vo namo namo rathebhyo rathapatibhyashcha vo namo namassenabhyassenanibhyashcha vo namo namah kshattribhyah sangrahitribhyashcha vo namo namastakshabhyo rathakarebhyashcha vo namo namah kulalebhyah karmarebhyashcha vo namo namah punjishtebhyo nishadebhyashcha vo namo nama ishukridbhyo dhanvakridbhyashcha vo namo namo mrigayubhyah shvanibhyashcha vo namo namashshvabhyashshvapatibhyashcha vo namah ॥ 4 ॥

namo bhavaya cha rudraya cha namah sharvaya cha pashupataye cha namo nilagrivaya cha shitikanthaya cha namah kapardine cha vyuptakeshaya cha namah sahasrakshaya cha shatadhanvane cha namo girishaya cha shipivishtaya cha namo midhushtamaya cheshumate cha namo hrasvaya cha vamanaya cha namo brihate cha varshiyase cha namo vriddhaya cha samvridhvane cha namo agriyaya cha prathamaya cha nama ashave chajiraya cha namashshighriyaya cha shibhyaya cha nama urmyaya chavasvanyaya cha namah srotasyaya cha dvipyaya cha ॥ 5 ॥

namo jyeshthaya cha kanishthaya cha namah purvajaya chaparajaya cha namo madhyamaya chapagalbhaya cha namo jaghanyaya cha budhniyaya cha namah sobhyaya cha pratisaryaya cha namo yamyaya cha kshemyaya cha nama urvaryaya cha khalyaya cha namashshlokyaya cha'vasanyaya cha namo vanyaya cha kakshyaya cha namah shravaya cha pratishravaya cha nama ashushenaya chashurathaya cha namashshuraya chavabhindate cha namo varmine cha varuthine cha namo bilmine cha kavachine cha namah shrutaya cha shrutasenaya cha ॥ 6 ॥

namo dundubhyaya chahananyaya cha namo dhrishnave cha pramrishaya cha namo dutaya cha prahitaya cha namo nishangine cheshudhimate cha namastikshneshave chayudhine cha namah svayudhaya cha sudhanvane cha namassrutyaya cha pathyaya cha namah katyaya cha nipyaya cha namassudyaya cha sarasyaya cha namo nadyaya cha vaishantaya cha namah kupyaya chavatyaya cha namo varshyaya chavarshyaya cha namo meghyaya cha vidyutyaya cha nama idhriyaya chatapyaya cha namo vatyaya cha reshmiyaya cha namo vastavyaya cha vastupaya cha ॥ 7 ॥

namassomaya cha rudraya cha namastamraya charunaya cha namah shangaya cha pashupataye cha nama ugraya cha bhimaya cha namo agrevadhaya cha durevadhaya cha namo hantre cha haniyase cha namo vrikshebhyo harikeshebhyo namastaraya namashshambhave cha mayobhave cha namah shankaraya cha mayaskaraya cha namah shivaya cha shivataraya cha namastirthyaya cha kulyaya cha namah paryaya chavaryaya cha namah prataranaya chottaranaya cha nama ataryaya chaladyaya cha namashshashpyaya cha phenyaya cha namah sikatyaya cha pravahyaya cha ॥ 8 ॥

nama irinyaya cha prapathyaya cha namah kigmshilaya cha kshayanaya cha namah kapardine cha pulastaye cha namo goshthyaya cha grihyaya cha namastalpyaya cha gehyaya cha namah katyaya cha gahvareshthaya cha namo hradayyaya cha niveshpyaya cha namah pagmsavyaya cha rajasyaya cha namashshushkyaya cha harityaya cha namo lopyaya cholapyaya cha nama urvyaya cha surmyaya cha namah parnyaya cha parnashadyaya cha namo'paguramanaya chabhighnate cha nama akhkhidate cha prakhkhidate cha namo vah kirikebhyo devanagm hridayebhyo namo vikshinakebhyo namo vichinvatkebhyo nama anirhatebhyo nama amivatkebhyah ॥ 9 ॥

drape andhasaspate daridrannilalohita । eshampurushanameshampashunamma bherma'ro mo eshankinchanamamat ।

ya te rudra shiva tanushshiva vishvahabheshaji । shiva rudrasya bheshaji taya no mrida jivase ॥

imagm rudraya tavase kapardine kshayadviraya prabharamahe matim । yatha nashshamasaddvipade chatushpade vishvampushtangrame asminnanaturam ।

mrida no rudrota no mayaskridhi kshayadviraya namasa vidhema te । yachchhancha yoshcha manurayaje pita tadashyama tava rudra pranitau ।

ma no mahantamuta ma no arbhakamma na ukshantamuta ma na ukshitam । ma no'vadhih pitarammota matarampriya ma nastanuvo rudra ririshah ।

ma nastoke tanaye ma na ayushi ma no goshu ma no ashveshu ririshah । viranma no rudra bhamito'vadhirhavishmanto namasa vidhema te ।

aratte goghna uta purushaghne kshayadviraya sumnamasme te astu । raksha cha no adhi cha deva bruhyadha cha nashsharma yachchha dvibarhah ।

stuhi shrutangartasadam yuvanammriganna bhimamupahatnumugram । mrida jaritre rudra stavano anyante asmannivapantu senah ।

parino rudrasya hetirvrinaktu pari tveshasya durmati raghayoh । ava sthira maghavadbhyastanushva midhvastokaya tanayaya mridaya ।

midhushtama shivatama shivo nah sumana bhava । parame vriksha ayudhannidhaya krittim vasana achara pinakambibhradagahi ।

vikirida vilohita namaste astu bhagavah । yaste sahasragm hetayonyamasmannivapantu tah ।

sahasrani sahasradha bahuvostava hetayah । tasamishano bhagavah parachina mukha kridhi ॥ 10 ॥

sahasrani sahasrasho ye rudra adhi bhumyam । teshagm sahasrayojane'vadhanvani tanmasi ।

asminmahatyarnave'ntarikshe bhava adhi । nilagrivashshitikanthashsharva adhah kshamacharah ।

nilagrivashshitikantha divagm rudra upashritah । ye vriksheshu saspinjara nilagriva vilohitah ।

ye bhutanamadhipatayo vishikhasah kapardinah । ye anneshu vividhyanti patreshu pibato janan । ye pathampathirakshaya ailabrida yavyudhah । ye tirthani pracharanti srikavanto nishanginah । ya etavantashcha bhuyagmsashcha disho rudra vitasthire । teshagm sahasrayojane'vadhanvani tanmasi । namo rudhrebhyo ye prithivyam ye'ntarikshe ye divi yeshamannam vato varshamishavastebhyo dasha prachirdasha dakshina dasha pratichirdashodichirdashordhvastebhyo namaste no mridayantu te yandvishmo yashcha no dveshti tam vo jambhe dadhami ॥ 11 ॥

shri rudram chamakam · Chamakam

om agnavishnu sajoshasemavardhantu vangirah । dyumnairvajebhiragatam । vajashcha me prasavashcha me prayatishcha me prasitishcha me dhitishcha me kratushcha me svarashcha me shlokashcha me shravashcha me shrutishcha me jyotishcha me suvashcha me pranashcha me'panashcha me vyanashcha me'sushcha me chittancha ma adhitancha me vakcha me manashcha me chakshushcha me shrotrancha me dakshashcha me balancha ma ojashcha me sahashcha ma ayushcha me jara cha ma atma cha me tanushcha me sharma cha me varma cha me'ngani cha me'sthani cha me parugmshi cha me sharirani cha me ॥ 1 ॥

jaishthyancha ma adhipatyancha me manyushcha me bhamashcha me'mashcha me'mbhashcha me jema cha me mahima cha me varima cha me prathima cha me varshma cha me draghuya cha me vriddhancha me vriddhishcha me satyancha me shraddha cha me jagachcha me dhanancha me vashashcha me tvishishcha me krida cha me modashcha me jatancha me janishyamanancha me suktancha me sukritancha me vittancha me vedyancha me bhutancha me bhavishyachcha me sugancha me supathancha ma riddhancha ma riddhishcha me kliptancha me kliptishcha me matishcha me sumatishcha me ॥ 2 ॥

shancha me mayashcha me priyancha me'nukamashcha me kamashcha me saumanasashcha me bhadrancha me shreyashcha me vasyashcha me yashashcha me bhagashcha me dravinancha me yanta cha me dharta cha me kshemashcha me dhritishcha me vishvancha me mahashcha me samvichcha me jnatrancha me sushcha me prasushcha me sirancha me layashcha ma ritancha me'mritancha me'yakshmancha me'namayachcha me jivatushcha me dirghayutvancha me'namitrancha me'bhayancha me sugancha me shayanancha me susha cha me sudinancha me ॥ 3 ॥

urkcha me sunrita cha me payashcha me rasashcha me ghritancha me madhu cha me sagdhishcha me sapitishcha me krishishcha me vrishtishcha me jaitrancha ma audbhidyancha me rayishcha me rayashcha me pushtancha me pushtishcha me vibhu cha me prabhu cha me bahu cha me bhuyashcha me purnancha me purnatarancha me'kshitishcha me kuyavashcha me'nnancha me'kshuchcha me vrihayashcha me yavashcha me mashashcha me tilashcha me mudgashcha me khalvashcha me godhumashcha me masurashcha me priyangavashcha me'navashcha me shyamakashcha me nivarashcha me ॥ 4 ॥

ashma cha me mrittika cha me girayashcha me parvatashcha me sikatashcha me vanaspatayashcha me hiranyancha me'yashcha me sisancha me trapushcha me shyamancha me lohancha me'gnishcha ma apashcha me virudhashcha ma oshadhayashcha me krishtapachyancha me'krishtapachyancha me gramyashcha me pashava aranyashcha yajnena kalpantam vittancha me vittishcha me bhutancha me bhutishcha me vasu cha me vasatishcha me karma cha me shaktishcha me'rthashcha ma emashcha ma itishcha me gatishcha me ॥ 5 ॥

agnishcha ma indrashcha me somashcha ma indrashcha me savita cha ma indrashcha me sarasvati cha ma indrashcha me pusha cha ma indrashcha me brihaspatishcha ma indrashcha me mitrashcha ma indrashcha me varunashcha ma indrashcha me tvashta cha ma indrashcha me dhata cha ma indrashcha me vishnushcha ma indrashcha me'shvinau cha ma indrashcha me marutashcha ma indrashcha me vishve cha me deva indrashcha me prithivi cha ma indrashcha me'ntarikshancha ma indrashcha me dyaushcha ma indrashcha me dishashcha ma indrashcha me murdha cha ma indrashcha me prajapatishcha ma indrashcha me ॥ 6 ॥

agmshushcha me rashmishcha me'dabhyashcha me'dhipatishcha ma upagmshushcha me'ntaryamashcha ma aindravayavashcha me maitravarunashcha ma ashvinashcha me pratiprasthanashcha me shukrashcha me manthi cha ma agrayanashcha me vaishvadevashcha me dhruvashcha me vaishvanarashcha ma ritugrahashcha me'tigrahyashcha ma aindragnashcha me vaishvadevashcha me marutvatiyashcha me mahendrashcha ma adityashcha me savitrashcha me sarasvatashcha me paushnashcha me patnivatashcha me hariyojanashcha me ॥ 7 ॥

idhmashcha me barhishcha me vedishcha me dishniyashcha me sruchashcha me chamasashcha me gravanashcha me svaravashcha ma uparavashcha me'dhishavane cha me dronakalashashcha me vayavyani cha me putabhrichcha ma adhavaniyashcha ma agnidhrancha me havirdhanancha me grihashcha me sadashcha me purodashashcha me pachatashcha me'vabhrithashcha me svagakarashcha me ॥ 8 ॥

agnishcha me gharmashcha me'rkashcha me suryashcha me pranashcha me'shvamedhashcha me prithivi cha me'ditishcha me ditishcha me dyaushcha me shakvarirangulayo dishashcha me yajnena kalpantamrikcha me sama cha me stomashcha me yajushcha me diksha cha me tapashcha ma ritushcha me vratancha me'horatrayorvrishtya brihadrathantare cha me yajnena kalpetam ॥ 9 ॥

garbhashcha me vatsashcha me tryavishcha me tryavicha me dityavat cha me dityauhi cha me panchavishcha me panchavi cha me trivatsashcha me trivatsa cha me turyavat cha me turyauhi cha me pashthavat cha me pashthauhi cha ma uksha cha me vasha cha ma rishabhashcha me vehachcha me'nadvancha me dhenushcha ma ayuryajnena kalpatam prano yajnena kalpatamapano yajnena kalpatam vyano yajnena kalpatam chakshuryajnena kalpatam shrotram yajnena kalpatam mano yajnena kalpatam vagyajnena kalpatamatma yajnena kalpatam yajno yajnena kalpatam ॥ 10 ॥

eka cha me tisrashcha me pancha cha me sapta cha me nava cha ma ekadasha cha me trayodasha cha me panchadasha cha me saptadasha cha me navadasha cha ma ekavigmshatishcha me trayovigmshatishcha me panchavigmshatishcha me saptavigmshatishcha me navavigmshatishcha ma ekatrigmshachcha me trayastrigmshachcha me chatasrashcha me'shtau cha me dvadasha cha me shodasha cha me vigmshatishcha me chaturvigmshatishcha me'shtavigmshatishcha me dvatrigmshachcha me shattrigmshachcha me chatvarigmshachcha me chatushchatvarigmshachcha me'shtachatvarigmshachcha me vajashcha prasavashchapijashcha kratushcha suvashcha murdha cha vyashniyashchantyayanashchantyashcha bhauvanashcha bhuvanashchadhipatishcha ॥ 11 ॥

om ida devahurmanuryajnanirbrihaspatirukthamadani shagmsishadvishve devassuktavachah prithivimatarma ma higmsirmadhu manishye madhu janishye madhu vakshyami madhu vadishyami madhumatindevebhyo vachamudyasagmshushrushenyam manushyebhyastam ma deva avantu shobhayai pitaro'numadantu ॥

om shantih shantih shantih ॥

About the Sri Rudram — Namakam & Chamakam

The Sri Rudram — the great Vedic hymn to Lord Rudra (Shiva) from the Yajurveda, in two parts: the Namakam (salutations) and the Chamakam (requests).

Meaning

The Namakam offers salutations ("namah") to Rudra in every form, place and being; the Chamakam ("cha me") then asks for every blessing of life and prosperity. Together they praise Shiva as all-pervading and the giver of all good.

Benefits

Chanted with Rudrabhishekam for health, peace, prosperity, protection and spiritual growth; among the most sacred and powerful of all Vedic recitations.

The Sri Rudram — Namakam & Chamakam above is given in both Devanagari (Sanskrit) and Roman transliteration so you can read it in whichever script you are comfortable with — switch between the two using the buttons above, share the link, or download a PDF.